(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.32. अध्यायः 032
Mahabharata - Sabha Parva - Chapter Topics
दक्षिणदिग्विजये शूरसेनादीञ्जितवतः सहदेवस्य माहिष्मत्यां नीलेन सह युद्धम् ॥ 1॥ नोलस्य अग्निसाहाय्यकरणकारणकथनम्॥ 2॥ सहदेवस्तुत्या तुष्टस्याग्नेराज्ञया नीलेनार्चितस्य सहदेवस्य विभीषणात्करग् रहणार्थं घटोत्कचप्रेषणम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text

वैशम्पाय उवाच॥

तथैव सहदेवोऽपि धर्मराजेन पूजितः।
महत्या सेनया राजन्प्रययौ दक्षिणां दिशम्॥ 2-32-1(12607)
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः।
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली॥ 2-32-2(12608)
अधिराजाधिपं चैव दन्तवक्रं महाबलम्।
जिगाय करदं चैव कृत्वा राज्ये न्यवेशयत्॥ 2-32-3(12609)
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्।
तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान्॥ 2-32-4(12610)
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा।
तरसैवाजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम्॥ 2-32-5(12611)
नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत्।
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम्॥ 2-32-6(12612)
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम्।
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा॥ 2-32-7(12613)
चक्रे तेन स सङ्ग्रामं सहदेवेन भारत।
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ॥ 2-32-8(12614)
सेकानपरसेकांश्च रत्नानि विविधानि च॥
ततस्तेनैव सहितो नर्मदामभितो ययौ। 2-32-10a`भगदत्तं महाबाहुं क्षत्रियं नरकात्मजम्।
अर्जुनाय करं दत्तं श्रुत्वा तत्र न्यवर्तत'॥ 2-32-9(12615)
विन्दानुविन्दावावन्त्यौ सैन्येन महतावृतौ।
जिगाय समरे वीरावाश्विनेयः प्रतापवान्॥ 2-32-11(12616)
ततो रत्नान्युपादाय पुरं भोजकटं ययौ।
तत्र युद्धमभूद्राजन्दिवसद्वयमच्युत॥ 2-32-12(12617)
स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः।
कोसलाधिपतिं चैव तथा वेणातटाधिपम्॥ 2-32-13(12618)
कान्तारकांश्च समर तथा प्राकोटकान्नृपान्।
नाटकेयांश्च समरे तथा हेरम्बकान्युधि॥ 2-32-14(12619)
मारुधं च विनिर्जित्य रम्यग्राममथो बलात्।
नाचीनानर्बुकांश्चैव राजानश्च महाबलः॥ 2-32-15(12620)
तांस्तानाटविकान्सर्वानजयत्पाण्डुनन्दनः।
नाताधिपं च नृपतिं वशे चक्रे महाबलः॥ 2-32-16(12621)
पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुरः।
युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः॥ 2-32-17(12622)
तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम्।
गुहामासादयामास किष्किन्धां लोकविश्रुताम्॥ 2-32-18(12623)
`पुरा वानरराजेन वालिना चाभिरक्षिताम्।
ततः कोसलराजस्य रामस्यैवानुगेन च।
सुग्रीवेणाभिगुप्तां तां प्रविष्टस्तमथाह्वयत्'॥ 2-32-19(12624)
तत्र वानरराजाभ्यां मैन्देन द्विविदेन च।
युयुधे दिवसान्सप्त न च तौ विकृतिं गतौ॥ 2-32-20(12625)
ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ।
ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः॥ 2-32-21(12626)
गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः।
अविघ्नमस्त कार्याय धर्मराजाय धीमते॥ 2-32-22(12627)
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ॥
तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः॥ 2-32-23(12628)
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान्॥
ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम्॥ 2-32-24(12629)
सैन्यक्षयकरं चैव प्राणानां संशयावहम्।
चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः॥ 2-32-25(12630)
ततो रथा हया नागाः पुरुषाः कवचानि च।
प्रतीप्तानि व्यदृश्यन्त सहदेवबले तदा॥ 2-32-26(12631)
ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः।
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय॥ 2-32-27(12632)
जनमेजय उवाच। 2-32-28x(1439)
किमर्थं भगवान्वह्निः प्रत्यमित्रोऽभवद्युधि।
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज॥ 2-32-28(12633)
वैशम्पायन उवाच। 2-32-29x(1440)
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः।
श्रूयते हि गृहीतो वै पुरस्तात्पारदारिकः॥ 2-32-29(12634)
नीलस्य राज्ञो दुहिता बभूवतातीव शोभना।
साऽग्निहोत्रमुपातिष्ठद्बोधनाय पितुः सदा॥ 2-32-30(12635)
व्यजनैर्धूयमानोऽपि तावत्प्रज्वलते न सः॥
यावच्चारुपुटौष्ठेन वायुना न विधूयते॥ 2-32-31(12636)
ततः स भगवानग्निश्चकमे तां सुदर्शनाम्।
नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत्॥ 2-32-32(12637)
ततो ब्रह्मणरूपेण रममाणो यदृच्छया॥
चकमे तां वरारोहां कन्यामुत्पललोचनाम्॥
तं तु राजा यथाशास्त्रमशासद्धार्मिकस्तदा॥ 2-32-33(12638)
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः।
तं दृष्ट्वा विस्मितो राजा जगाम शिरसाऽवनिम्॥ 2-32-34(12639)
ततः कालेन तां कन्यां तथैव हि तदा नृपः।
प्रददौ विप्ररूपाय वह्रये शिरसा नतः॥ 2-32-35(12640)
प्रतिगृह्य च तां सुभ्रुं नीलराज्ञः सुतां तदा।
चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः॥ 2-32-36(12641)
वरेण च्छन्दयामास तं नृपं स्विष्टकृत्तमः।
अभयं च स जग्राह स्वसैन्ये वै महीपतिः॥ 2-32-37(12642)
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः।
जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना॥ 2-32-38(12643)
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह।
बभूवुरनतिग्राह्य योषितश्छन्दतः किल॥ 2-32-39(12644)
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे।
स्वैरिण्यस्तत्र च राजानस्तत्पुरं भरतर्षभ। 2-32-40(12645)
वर्जयन्ति च राजानस्तत्पुरं भरतर्षभ।
भयादग्नेर्महाराज तदाप्रभृति सर्वदा॥ 2-32-41(12646)
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम्।
परीतमग्निना राजन्नाकम्पत यथाऽचलः।
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः॥ 2-32-42(12647)
सहदेव उवाच। 2-32-43x(1441)
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोस्तु ते।
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक॥ 2-32-43(12648)
पावनात्पावकश्चासि वहनाद्धव्यवाहनः।
वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि॥ 2-32-44(12649)
चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो।
स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी॥ 2-32-45(12650)
वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः।
कुमारसूस्त्वं भगवान्रुद्रगर्भो हिरण्यकृत्॥ 2-32-46(12651)
अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे।
पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे॥ 2-32-47(12652)
अपां गर्भ महासत्व जातवेदः सुरेश्वर।
देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम्॥ 2-32-48(12653)
ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि।
नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम्॥ 2-32-49(12654)
धूमकेतुः शिखी च त्वं पापहाऽनिसम्भवः।
सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम्॥ 2-32-50(12655)
एवं स्तुतोऽसि भगवन्प्रीतेन शिचिना मया।
तुष्टिं पुष्टिं श्रुतं चैव प्रीति चाग्ने प्रयच्छ मे॥ 2-32-51(12656)
वैशम्पायन उवाच। 2-32-52x(1442)
इत्येवं मन्त्रमाग्नेयं पठन्यो जुहुयाद्विभुम्।
ऋद्धिमान्सततं दान्तः सर्वपापैः प्रमुच्यते॥ 2-32-52(12657)
सहदेव उवाच। 2-32-53x(1443)
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं यज्ञवाहन।
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम्॥ 2-32-53(12658)
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत्।
प्रमुखे तस्य सैन्यस्य भीतोद्विग्रस्य भारत॥ 2-32-54(12659)
न चैनमत्यगाद्वह्निरुवाच महोदधिः।
तमुपेत्य शनैर्वह्निरुवाच कुरुनन्दनम्॥ 2-32-55(12660)
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः।
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया॥ 2-32-56(12661)
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च।
मया तु रक्षितव्या पूरियं भरतसत्तम॥ 2-32-57(12662)
यावद्राज्ञो हि नीलस्य कुले वंशधरा इति।
ईप्सितं तु करिष्यामि मनसस्तव पाण्डव॥ 2-32-58(12663)
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसा नतः।
पूजयामास माद्रेयटः पावकं भरतर्षभ॥ 2-32-59(12664)
पावके विनिवृत्ते तु नीलो राजाऽभ्यगात्तदा।
पावकस्याज्ञया चैनमर्चयामास पार्थिवः॥ 2-32-60(12665)
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम्।
प्रतिगृह्य च तां पूजां करे च विनिवेश्य च॥ 2-32-61(12666)
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम्।
त्रैपुरं स वशे कृत्वा राजानममितौजसम्॥ 2-32-62(12667)
निजग्राह महाबाहुस्तरसा पौरवेश्वरम्।
आकृतिं कौशिकाचार्यं यत्ने महता ततः॥ 2-32-63(12668)
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा।
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे॥ 2-32-64(12669)
राज्ञे भोजकटस्थाय महामात्राय धीमते।
भीष्मकायस धर्मात्मा साक्षादिन्द्रसखाय वै॥ 2-32-65(12670)
च चास्य प्रतिजग्राह ससुतः शासनं तदा।
प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च॥ 2-32-66(12671)
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः।
ततः शूर्पारकं चैव तालाकटमथापि च॥ 2-32-67(12672)
वशे चक्रे महातेजा दण्डकांश्च महाबलः।
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान्॥ 2-32-68(12673)
निषादान्पुरुषादांश्च कर्णप्रावरणानपि।
ये च कालमुखा नाम नरराक्षसयोनयः॥ 2-32-69(12674)
कृत्स्नं कोलगिरिं चैव सुरभीपट्टनं तथा।
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा॥ 2-32-70(12675)
तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः।
एकपादांश्च पुरुषान्केरलान्वनवासिनः॥ 2-32-71(12676)
नगरीं सञ्जयन्तीं च पाषण्डं करहाटकम्।
दूतैरेव वशे चक्रे करं चैनानदापयत्॥ 2-32-72(12677)
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः।
अन्ध्रांस्तावनांश्चैव कलिङ्गानुष्ट्रकर्णिकान्॥ 2-32-73(12678)
आटवीं च पुरीं रम्यां यवनानां पुरं तथा।
दूतैरेव वशे चक्रे करं चैनानदापयत्॥ 2-32-74(12679)
`तात्रपर्णी ततो गत्वा कन्यातीर्थमतीत्य च।
दक्षिणां च दिशं सर्वा विजित्य कुरुनन्दनः॥ 2-32-75(12680)
उत्तरं तीरमासाद्य सागरस्योर्मिमालिनः।
चिन्तयामास कौन्तेयो भ्रातुः पुत्रं घटोत्कचम्॥ 2-32-76(12681)
ततश्चिन्तितमात्रस्तु राक्षसः प्रत्यदृश्यत।
तं मेरुशिखराकारमागतं पाण्डुनन्दनः॥ 2-32-77(12682)
भृगुकच्छात्ततो धीमान्साम्नैवामित्रकर्शनः।
आगम्यतामिति प्राह धर्मराजस्य शसनाः॥ 2-32-78(12683)
स राक्षसपरीवारस्तं प्रणम्याशु संस्थितः।
घटोत्कचं महात्मानं राक्षसं घोरदर्शनम्॥ 2-32-79(12684)
तत्रस्थः प्रेषयामास पौलस्त्याय महात्मने'।
बिभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः॥ 2-32-80(12685)
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्।
तच्च कृष्णकृतं धीमानभ्यमन्यत स प्रभुः॥ 2-32-81(12686)
ततः सम्प्रेषयामास रत्नानि विविधानि च।
चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च॥ 2-32-82(12687)
वासांसि च महार्हाणि मणींश्चैव महाधनान्॥ ॥ 2-32-82x(1444)

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि द्वात्रिंशोऽध्यायः॥ 32॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.