|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.32. अध्यायः 032
Mahabharata - Sabha Parva - Chapter Topics
दक्षिणदिग्विजये शूरसेनादीञ्जितवतः सहदेवस्य माहिष्मत्यां नीलेन सह युद्धम् ॥ 1॥ नोलस्य अग्निसाहाय्यकरणकारणकथनम्॥ 2॥ सहदेवस्तुत्या तुष्टस्याग्नेराज्ञया नीलेनार्चितस्य सहदेवस्य विभीषणात्करग् रहणार्थं घटोत्कचप्रेषणम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पाय उवाच॥
तथैव सहदेवोऽपि धर्मराजेन पूजितः।
महत्या सेनया राजन्प्रययौ दक्षिणां दिशम्॥ 2-32-1(12607)
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः।
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली॥ 2-32-2(12608)
अधिराजाधिपं चैव दन्तवक्रं महाबलम्।
जिगाय करदं चैव कृत्वा राज्ये न्यवेशयत्॥ 2-32-3(12609)
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्।
तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान्॥ 2-32-4(12610)
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा।
तरसैवाजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम्॥ 2-32-5(12611)
नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत्।
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम्॥ 2-32-6(12612)
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम्।
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा॥ 2-32-7(12613)
चक्रे तेन स सङ्ग्रामं सहदेवेन भारत।
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ॥ 2-32-8(12614)
सेकानपरसेकांश्च रत्नानि विविधानि च॥
ततस्तेनैव सहितो नर्मदामभितो ययौ। 2-32-10a`भगदत्तं महाबाहुं क्षत्रियं नरकात्मजम्।
अर्जुनाय करं दत्तं श्रुत्वा तत्र न्यवर्तत'॥ 2-32-9(12615)
विन्दानुविन्दावावन्त्यौ सैन्येन महतावृतौ।
जिगाय समरे वीरावाश्विनेयः प्रतापवान्॥ 2-32-11(12616)
ततो रत्नान्युपादाय पुरं भोजकटं ययौ।
तत्र युद्धमभूद्राजन्दिवसद्वयमच्युत॥ 2-32-12(12617)
स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः।
कोसलाधिपतिं चैव तथा वेणातटाधिपम्॥ 2-32-13(12618)
कान्तारकांश्च समर तथा प्राकोटकान्नृपान्।
नाटकेयांश्च समरे तथा हेरम्बकान्युधि॥ 2-32-14(12619)
मारुधं च विनिर्जित्य रम्यग्राममथो बलात्।
नाचीनानर्बुकांश्चैव राजानश्च महाबलः॥ 2-32-15(12620)
तांस्तानाटविकान्सर्वानजयत्पाण्डुनन्दनः।
नाताधिपं च नृपतिं वशे चक्रे महाबलः॥ 2-32-16(12621)
पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुरः।
युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः॥ 2-32-17(12622)
तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम्।
गुहामासादयामास किष्किन्धां लोकविश्रुताम्॥ 2-32-18(12623)
`पुरा वानरराजेन वालिना चाभिरक्षिताम्।
ततः कोसलराजस्य रामस्यैवानुगेन च।
सुग्रीवेणाभिगुप्तां तां प्रविष्टस्तमथाह्वयत्'॥ 2-32-19(12624)
तत्र वानरराजाभ्यां मैन्देन द्विविदेन च।
युयुधे दिवसान्सप्त न च तौ विकृतिं गतौ॥ 2-32-20(12625)
ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ।
ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः॥ 2-32-21(12626)
गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः।
अविघ्नमस्त कार्याय धर्मराजाय धीमते॥ 2-32-22(12627)
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ॥
तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः॥ 2-32-23(12628)
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान्॥
ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम्॥ 2-32-24(12629)
सैन्यक्षयकरं चैव प्राणानां संशयावहम्।
चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः॥ 2-32-25(12630)
ततो रथा हया नागाः पुरुषाः कवचानि च।
प्रतीप्तानि व्यदृश्यन्त सहदेवबले तदा॥ 2-32-26(12631)
ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः।
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय॥ 2-32-27(12632)
जनमेजय उवाच। 2-32-28x(1439)
किमर्थं भगवान्वह्निः प्रत्यमित्रोऽभवद्युधि।
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज॥ 2-32-28(12633)
वैशम्पायन उवाच। 2-32-29x(1440)
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः।
श्रूयते हि गृहीतो वै पुरस्तात्पारदारिकः॥ 2-32-29(12634)
नीलस्य राज्ञो दुहिता बभूवतातीव शोभना।
साऽग्निहोत्रमुपातिष्ठद्बोधनाय पितुः सदा॥ 2-32-30(12635)
व्यजनैर्धूयमानोऽपि तावत्प्रज्वलते न सः॥
यावच्चारुपुटौष्ठेन वायुना न विधूयते॥ 2-32-31(12636)
ततः स भगवानग्निश्चकमे तां सुदर्शनाम्।
नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत्॥ 2-32-32(12637)
ततो ब्रह्मणरूपेण रममाणो यदृच्छया॥
चकमे तां वरारोहां कन्यामुत्पललोचनाम्॥
तं तु राजा यथाशास्त्रमशासद्धार्मिकस्तदा॥ 2-32-33(12638)
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः।
तं दृष्ट्वा विस्मितो राजा जगाम शिरसाऽवनिम्॥ 2-32-34(12639)
ततः कालेन तां कन्यां तथैव हि तदा नृपः।
प्रददौ विप्ररूपाय वह्रये शिरसा नतः॥ 2-32-35(12640)
प्रतिगृह्य च तां सुभ्रुं नीलराज्ञः सुतां तदा।
चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः॥ 2-32-36(12641)
वरेण च्छन्दयामास तं नृपं स्विष्टकृत्तमः।
अभयं च स जग्राह स्वसैन्ये वै महीपतिः॥ 2-32-37(12642)
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः।
जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना॥ 2-32-38(12643)
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह।
बभूवुरनतिग्राह्य योषितश्छन्दतः किल॥ 2-32-39(12644)
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे।
स्वैरिण्यस्तत्र च राजानस्तत्पुरं भरतर्षभ। 2-32-40(12645)
वर्जयन्ति च राजानस्तत्पुरं भरतर्षभ।
भयादग्नेर्महाराज तदाप्रभृति सर्वदा॥ 2-32-41(12646)
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम्।
परीतमग्निना राजन्नाकम्पत यथाऽचलः।
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः॥ 2-32-42(12647)
सहदेव उवाच। 2-32-43x(1441)
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोस्तु ते।
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक॥ 2-32-43(12648)
पावनात्पावकश्चासि वहनाद्धव्यवाहनः।
वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि॥ 2-32-44(12649)
चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो।
स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी॥ 2-32-45(12650)
वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः।
कुमारसूस्त्वं भगवान्रुद्रगर्भो हिरण्यकृत्॥ 2-32-46(12651)
अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे।
पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे॥ 2-32-47(12652)
अपां गर्भ महासत्व जातवेदः सुरेश्वर।
देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम्॥ 2-32-48(12653)
ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि।
नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम्॥ 2-32-49(12654)
धूमकेतुः शिखी च त्वं पापहाऽनिसम्भवः।
सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम्॥ 2-32-50(12655)
एवं स्तुतोऽसि भगवन्प्रीतेन शिचिना मया।
तुष्टिं पुष्टिं श्रुतं चैव प्रीति चाग्ने प्रयच्छ मे॥ 2-32-51(12656)
वैशम्पायन उवाच। 2-32-52x(1442)
इत्येवं मन्त्रमाग्नेयं पठन्यो जुहुयाद्विभुम्।
ऋद्धिमान्सततं दान्तः सर्वपापैः प्रमुच्यते॥ 2-32-52(12657)
सहदेव उवाच। 2-32-53x(1443)
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं यज्ञवाहन।
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम्॥ 2-32-53(12658)
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत्।
प्रमुखे तस्य सैन्यस्य भीतोद्विग्रस्य भारत॥ 2-32-54(12659)
न चैनमत्यगाद्वह्निरुवाच महोदधिः।
तमुपेत्य शनैर्वह्निरुवाच कुरुनन्दनम्॥ 2-32-55(12660)
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः।
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया॥ 2-32-56(12661)
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च।
मया तु रक्षितव्या पूरियं भरतसत्तम॥ 2-32-57(12662)
यावद्राज्ञो हि नीलस्य कुले वंशधरा इति।
ईप्सितं तु करिष्यामि मनसस्तव पाण्डव॥ 2-32-58(12663)
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसा नतः।
पूजयामास माद्रेयटः पावकं भरतर्षभ॥ 2-32-59(12664)
पावके विनिवृत्ते तु नीलो राजाऽभ्यगात्तदा।
पावकस्याज्ञया चैनमर्चयामास पार्थिवः॥ 2-32-60(12665)
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम्।
प्रतिगृह्य च तां पूजां करे च विनिवेश्य च॥ 2-32-61(12666)
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम्।
त्रैपुरं स वशे कृत्वा राजानममितौजसम्॥ 2-32-62(12667)
निजग्राह महाबाहुस्तरसा पौरवेश्वरम्।
आकृतिं कौशिकाचार्यं यत्ने महता ततः॥ 2-32-63(12668)
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा।
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे॥ 2-32-64(12669)
राज्ञे भोजकटस्थाय महामात्राय धीमते।
भीष्मकायस धर्मात्मा साक्षादिन्द्रसखाय वै॥ 2-32-65(12670)
च चास्य प्रतिजग्राह ससुतः शासनं तदा।
प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च॥ 2-32-66(12671)
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः।
ततः शूर्पारकं चैव तालाकटमथापि च॥ 2-32-67(12672)
वशे चक्रे महातेजा दण्डकांश्च महाबलः।
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान्॥ 2-32-68(12673)
निषादान्पुरुषादांश्च कर्णप्रावरणानपि।
ये च कालमुखा नाम नरराक्षसयोनयः॥ 2-32-69(12674)
कृत्स्नं कोलगिरिं चैव सुरभीपट्टनं तथा।
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा॥ 2-32-70(12675)
तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः।
एकपादांश्च पुरुषान्केरलान्वनवासिनः॥ 2-32-71(12676)
नगरीं सञ्जयन्तीं च पाषण्डं करहाटकम्।
दूतैरेव वशे चक्रे करं चैनानदापयत्॥ 2-32-72(12677)
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः।
अन्ध्रांस्तावनांश्चैव कलिङ्गानुष्ट्रकर्णिकान्॥ 2-32-73(12678)
आटवीं च पुरीं रम्यां यवनानां पुरं तथा।
दूतैरेव वशे चक्रे करं चैनानदापयत्॥ 2-32-74(12679)
`तात्रपर्णी ततो गत्वा कन्यातीर्थमतीत्य च।
दक्षिणां च दिशं सर्वा विजित्य कुरुनन्दनः॥ 2-32-75(12680)
उत्तरं तीरमासाद्य सागरस्योर्मिमालिनः।
चिन्तयामास कौन्तेयो भ्रातुः पुत्रं घटोत्कचम्॥ 2-32-76(12681)
ततश्चिन्तितमात्रस्तु राक्षसः प्रत्यदृश्यत।
तं मेरुशिखराकारमागतं पाण्डुनन्दनः॥ 2-32-77(12682)
भृगुकच्छात्ततो धीमान्साम्नैवामित्रकर्शनः।
आगम्यतामिति प्राह धर्मराजस्य शसनाः॥ 2-32-78(12683)
स राक्षसपरीवारस्तं प्रणम्याशु संस्थितः।
घटोत्कचं महात्मानं राक्षसं घोरदर्शनम्॥ 2-32-79(12684)
तत्रस्थः प्रेषयामास पौलस्त्याय महात्मने'।
बिभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः॥ 2-32-80(12685)
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्।
तच्च कृष्णकृतं धीमानभ्यमन्यत स प्रभुः॥ 2-32-81(12686)
ततः सम्प्रेषयामास रत्नानि विविधानि च।
चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च॥ 2-32-82(12687)
वासांसि च महार्हाणि मणींश्चैव महाधनान्॥ ॥ 2-32-82x(1444)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि द्वात्रिंशोऽध्यायः॥ 32॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|